वाचस्पत्यम्
शरद् || स्त्री घृ—अदि । १ वत्सरे, २ आश्विरकार्त्तिकमासात्मके णृतौ च अमरः । तद्वारिगुणा भावप्र० उक्ता यथा “वर्षसु नाभसं वारि सेवेतौद्भिदमेव वा । सर्वं शरदि हेमन्ते तडागं सारसन्तु वा” । शारदं चानभिष्यन्दि लघु तत् परिकीर्त्तितम् । हैमन्तिकजलं स्निग्धं बल्यं वृष्यं हितं धृस” राजव० । तत्रोत्तरवायुसेवनं हितं यथा “वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्षो हेमन्तशैशिरे” राजनि० । ऋतुशब्दे हृ० दृश्यम् । “शरदृतुश्च वैद्यकमते भाद्राश्विनमासा- त्भयः । तत्र वर्णनीयानि चन्द्रपटुता जलशुष्कता अगस्त्यः हंसः वृषः” कविकल्प० ।
शब्दकल्पद्रुमः
शरत् || [द्] स्त्री, (शॄ हिंसायाम् + “शॄ दॄभ- सोऽदिः ।” उणा० १ । १२९ । इति अदिः ।)
वत्सरः । (यथा, रघुः । १० । १ । “पृथिवीं शासतस्तस्य पाकशासनतेजसः । किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥”)
ऋतुविशेषः । स चाश्विनकार्त्तिकमासद्वया- त्मकः । इत्यमरः ॥ तत्पर्य्यायः । शारदा २ कालप्रभातः ३ । इति शब्दरत्नावली ॥ काल- प्रभातम् ४ । इति त्रिकाण्डशेषः ॥ वर्षाव- सानः ५ मेघान्तः ६ प्रावृडत्ययः ७ । (यथा, रघुः । ४ । २४ । “सरितः कुर्व्वती गाधाः पथश्चाश्यानकर्द्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥”)
तत्र जलगुणाः । “वर्षासु नाभसं वारि सेवतोद्भिदमेव वा । सर्व्वं शरदि हेमन्ते तडागं सारसन्तु वा ॥” * ॥
तत्र ग्राह्यवायुर्यथा, —
“वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः । उत्तरः शारदे काले पूर्व्वो हेमन्तशैशिरे ॥” इति राजनिर्घण्टः ॥ * ॥
अपि च । “शारदञ्चानभिष्यन्दि लघु तत्परिकीर्त्तितम् । हैमन्तिकं जलं स्निग्धं बल्यं वृष्यं हितं गुरु ॥” इति राजवल्लभः ॥ * ॥
वैद्यकमते भाद्राश्विनमासात्मकः । केचित्तु । “ऋतुषट्कं समाख्यातं रवे राशिषु संक्र- मात् ॥ ग्रीष्मो मेषवृषौ प्रोक्तः प्रावृट् मिथुनकर्कटौ । सिंहकन्ये स्मृता वर्षा तुलावृश्चिकयोः शरत् । धनुर्ग्राहौ च हेमन्तो वसन्तः कुम्भमीनकौ ॥” अन्येतु । “शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः । माघादिमासयुग्मैः स्युरृतवः षट् क्रमादमी ॥” तस्या गुणाः । “शरदुष्णा पित्तकर्त्री नृणां मध्यबलावहा ।” इति भावप्रकाशः ॥ * ॥
तत्र जातफलम् । “नरः शरत्संज्ञकलब्धजन्मा भवेत् सुकर्म्मा मनुजस्तरस्वी । शुचिः सुशीलो गुणवान् सुमानी धनान्वितो राजकुलप्रपन्नः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
तत्र वर्णनीयानि यथा । चन्द्रपटुता । रवि- पटुता । जलशुष्कता । अगस्त्यः । हंसः । वृषः । सर्पः । सप्तच्छदः । पद्मम् । श्वेतमेघः । धान्यम् । शिखिपक्षमदपातः । इति कविकल्पलता ॥
शब्दकल्पद्रुमः
शरद् || स्त्री (शॄ + अदिः ।)
शरत् । इत्यमरः ॥