शरदिज
शरद्
शरदुदाशय
शब्दकल्पद्रुमः
शरदुदाशयं || क्ली शरत्कालीनसरोवरम् । यथा, —
“शरदुदाशये साधुजातसत्- सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥” इति श्रीभागवते । १० । ३१ । २ ॥ शरदुदाशये शरत्कालीनसरसि । इति श्रीधर- स्वामी ॥