वाचस्पत्यम्
शरव्य || न० शरवे वाणशिक्षायै हितं शरु + यत् । लक्ष्ये, शरेण वेधनायोद्देश्ये अमरः ।
शब्दकल्पद्रुमः
शरव्यं || क्ली (शरवे हिंसायै बाणशिक्षायै वा साधु । शरु + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । यद्वा, शरान् व्ययति । व्ये + डः ।)
लक्ष्यम् । इत्यमरः ॥ (यथा, माघे । ७ । २४ । “विदधाति जनतामनःशरव्य- व्यधपटुमन्मथचापनादशङ्काम् ॥”)