शब्दकल्पद्रुमः
शरास्यं || क्ली (शरा अस्यन्तेऽनेनेति । अस् + ण्यत् ।) धनुः । यथा, — “चिच्छेद तस्य तान् वाणान् शरास्यञ्च महा- मुने । युयुधातेऽतिसंरब्धौ परस्परवधैषिणौ ॥” इति मार्कण्डेयपुराणे जैमिनिखण्डं पुराणं परि- पूर्णम् ॥