वाचस्पत्यम्
शरिमन् || पु० शॄ—उणा० इमनिच् । प्रसवे सि० कौ०
शब्दकल्पद्रुमः
शरिमा || [न्] पुं, (शृणाति यौवनमिति । शॄ + “हृभृधृसृस्तृशॄभ्य इमणिच् ।” उणा० ४ । १४७ । इति इमणिच् ।) प्रसवः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥