वाचस्पत्यम्
शरीरज || पु० शरीरात् जायते जन—ड । १ रोगे २ कामदेवे ३ पुत्रे च धरणिः । ४ देहजातमात्रे त्रि० ।
शब्दकल्पद्रुमः
शरीरजः || पुं, (शरीरात् जायते इति । जन + डः ।)
रोगः । कामदेवः । (यथा, महा- भारते । १ । १०० । ५६ । “नाकामयत तं दातुं वरं दाशाय शान्तनुः । शरीरजेन तीव्रेण दह्यमानोऽपि भारत ॥”)
पुत्त्रः । इति धरणिः । (यथा, महाभारते । १३ । २४ । ४ । “इति पृष्टो मया राजन् पराशरशरीरजः । अब्रवीन्निपुणो धर्म्मे निःसंशयमनुत्तमम् ॥”)
देहजाते, त्रि । यथा, —
“शरीरजैः कर्म्मदोषैर्य्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥” इति प्रायश्चित्ततत्त्वम् ॥