संस्कृत-शब्दकोशः

शरीरसंस्कार शरीरिन्

शरीरावरण

वाचस्पत्यम्

शरीरावरण ||‍ न० शरीरमावृणोति आ + वृ—युच् । देह- व्यापिनि १ चर्मणि राजनि० । २ देहावरके त्रि० । ल्युट् । ३ देहाच्छादने न० ।


शब्दकल्पद्रुमः

शरीरावरणं || क्ली (शरीरस्य आवरणम् ।)
चर्म्म । इति राजनिर्घण्टः ॥ कायवेष्टनञ्च ॥ (वर्म्म । यथा, महाभारते । ७ । १८५ । ४२ । “विचित्रैर्विविधाकारैः शरीरावरणैरपि । विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥”)



Correction: