वाचस्पत्यम्
शरीरिन् || पु० शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इनि । जीवे जटा० ।
शब्दकल्पद्रुमः
शरीरी || [न्] पुं, (शरीरमस्यास्तीति । शरीर + इनिः ।)
शरीरविशिष्टः । तत्पर्य्यायः । “भवोद्भवौ च प्राणी तु शरीरिजन्युजन्तवः । प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः ॥” इति जटाधरः ॥ शरीरिलक्षणं यथा, —
“गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥ कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥ आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा ॥ नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके । दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनि ॥ पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छस्कुलीद्बयम् । पाणिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥ ओष्ठाधरौ च सृक्कण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः ॥ द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे ॥ तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः । कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा ॥ मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः ॥ चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे । स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम् ॥ यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ ॥ हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥ आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् । अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥” चेतनास्थानमुत्तममिति अयमभिप्रायः । “चेतनानामधिष्ठानं मनो देहश्च सेन्द्रियः । केशलोमनखाग्रान्तर्मलं द्रव्यगुणैर्विना ॥” इत्युक्तवता चरकेण सकलं शरीरं चेतनास्थान- मुक्तं तदपेक्षया हृदयं विशेषतश्चेतनावस्थान- मिति । “कक्षयोर्व्वक्षसोः सन्धी जत्रुणी समुदाहृते । कक्षे उभे समाख्याते तयोः स्याताञ्च वंक्षणौ ॥ उदरं पञ्चमं भागं षष्ठं पार्श्वद्बयं मतम् । सपृष्ठवंशं पृष्ठन्तु समस्तं सप्तमं स्मृतम् ॥ * ॥
उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः ॥ शोणिताज्जायते प्लीहा वामतो हृदयादधः । रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः ॥ हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेणजः । अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः ॥ तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् । अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति । जलवाहिशिरामूलं तृष्णाच्छादनकृन्मतम् ॥” क्लोम तिलकं एतत्तु वातरक्तजम् । अत्राह च वृद्धवाग्भटः । “रक्तादनिलसंयुक्तात् कालीयक समुद्भवः ।” इति । “मेदःशोणितयोः साराद्वुक्कयोर्युगलं भवेत् । तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ॥ उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः । अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत् ॥ उण्डुकश्च कटी चापि त्रिकं वस्तिश्च वंक्षणौ । कण्डराणां प्ररोहः स्यान्मेढ्राणां वीर्य्यमूत्रयोः । स एव गर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः ॥ शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥ वृषणौ भवतः सारात् कफासृङ्मांसमेदसाम् । वीर्य्यवाहिशिराधारौ तौ मतौ पौरुषावहौ ॥ गुदस्य मानं सर्व्वस्य सर्व्वं स्याच्चतुरङ्गुलम् । तत्र स्युर्व्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताः ॥ प्रवाहिणी भवेत् पूर्व्वा सार्द्धाङ्गुलमिता मता । उत्सर्ज्जिनी तु तदधः सा सार्द्धाङ्गुलसम्मिता ॥ तस्या अधःशम्बरणी स्यादेकाङ्गुलसम्मिता । अर्द्धाङ्गुलप्रमाणन्तु बुधैर्गुदमुखं मतम् ॥ मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः । पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः ॥ तयोः कुकुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम् । तदुपाङ्गानि च व्रूमो जानुनी पिण्डिकाद्बयम् ॥ जङ्घे द्वे घुटिके पार्ष्णी तले च प्रपदे तथा । पादावङ्गुलयस्तत्र दश तासां नखा दश ॥” इति भावप्रकाशः ॥ (क्षेत्रज्ञो जीवात्मा । यथा, मनुः । १ । ५३ । “तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरी- रिणः । स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति ॥”)