संस्कृत-शब्दकोशः

शरीरिन् शरेष्ट

शरु

वाचस्पत्यम्

शरु ||‍ पु० शॄ—उन् । १ क्रोधे २ वज्रे मेदि० । ३ वाणे हेमच० । ४ आयुधे च संक्षिप्तसा० ।


शब्दकल्पद्रुमः

शरुः || पुं, (शॄ हिंसायाम् + “शॄस्वृस्निहित्रप्य- सीति ।” उणा० १ । ११ । इति उः ।)
क्रोधः । वज्रम् । इति मेदिनी ॥ बाणः । इति हेम- चन्द्रः ॥ आयुधम् । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ (हिंसा । यथा, ऋग्वेदे । ६ । २७ । ६ । “वृचीवन्तः शरवे पत्यमानाः ।” “शरवे हिंसायै ।” इति तद्भाष्ये सायणः ॥ गन्धर्व्वविशेषः । यथा, महाभारते । १ । १२३ । ५५ । “विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा ॥” हिंसके, त्रि । यथा, तत्रैव । ७ । ७१ । १ । “दिवा नक्तं शरुमस्मद्युयोतम् ॥” “शरुं हिंसकम् ।” इति तद्भाष्ये सायणः ॥)



Correction: