संस्कृत-शब्दकोशः

शर्करजा शर्कराचल

शर्करा

वाचस्पत्यम्

शर्करा ||‍ स्त्री शॄ—करन् कस्य नेत्त्वम् । १ खण्डविकारे (चिनि) अमरः । २ उपलखण्डे ३ कर्परखण्डे च (खापरा) मेदि० । शर्कराः सन्तस्य मतुप् तस्य लुक् । ४ बहुशर्करायुते देशे अमरः । ५ रोगभेदे अश्मरीशब्दे ४९५ पृ० दृश्यम् । ६ शकले च मेदि० । शर्कराभेद गुणा राजनि० उक्ता यथा “स्निग्धा पण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशेक्षुजा । वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्ति करीरसालजनिता रक्तेक्षुजा पित्तजित्” “यावनाली हि- मोत्पन्ना हिमाली हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुडजा जलबिन्दुजा । हिमजा शर्करा गौल्या सोक्ता० तिक्ताऽतिपिच्छला । वातघ्नी सारिका रुच्या दाहपि- त्तास्रदायिनी । “शीतजान्याकर्करजा माध्वी च मधु- शर्करा । माक्षिका० शर्करा प्रोक्ता सिताखण्डश्च ख- ण्डकः । सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः । कुष्ठव्रणकफश्वासहिक्कापित्तास्नदोषनुत् । यवासशर्करा त्वन्या सुधामोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः” । “मत्स्यण्डीकाः खण्ड- सिता गुणश्रेष्ठा यथोत्तरम् । विमलाः शीतलाः स्निग्धाः गुर्व्यः स्वादुतराः सराः । वृष्यास्तृषाक्षत क्षोणरक्तपित्तानिलापहाः । मत्स्यण्डी ग्राहिणी बल्या कषाया वातजित् गुरुः । खण्डं गुरु सरं रुच्यं वातघ्नं वलपुष्टिदम् । सितोपला सरा गुर्वी वातघ्नी न कफ- प्रदा” । पय्यापथ्यविवेकः “शर्करा ज्वरपित्तासृङ्मूर्च्छा च्छर्दितृषापहा । तृष्णाघ्नस्ववराजस्तु ज्वरदाहास्रपित्त- नुत् । लसिका फाणितगुडखण्डमत्स्यण्डिकासिताः । निर्मला लषवो ज्ञेयाः शीतवीर्य्या यथोत्तरम् । यथा यथैषां वेमल्यं भवेच्छैत्यं तथा तथा” राजवल्लभः । “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाहजित् । मूर्च्छाच्छर्दिज्वरान् हन्ति सु- शीता शुक्रकारिणी । भवेन्मधुसिता शीता रक्तपित्त- हरो गुरुः । छर्द्यतीसारतृडदाहरक्तकृत्तुवरा हिमा । यथा यथैषां नैर्मल्यं मधुरत्वं यथा तथा । स्नेहलाघव शेत्यानि रसत्वञ्च तथः तथा” भावप्र० गुणग्रन्थे ।


शब्दकल्पद्रुमः

शर्करा || स्त्री खण्डविकृतिः । चिनी इति भाषा । तत्पर्य्यायः । सिता २ । इत्यमरः ॥ शुक्लोपला ३ शुक्ला ४ सितोपला ५ । इति रत्नमाला ॥ मीनाण्डी ६ श्वेता ७ मत्स्यण्डिका ८ अहि- च्छत्रा ९ सुसिकता १० गुडोद्भवा ११ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । पित्तदाह- श्रमरक्तदोषभ्रान्तिकृमिकोपनाशित्वञ्च । इति साधारणशर्करागुणाः ॥ * ॥
अथ शर्कराविशेषगुणाः । “स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षये- ऽरोचके चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशे- क्षुजा । वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥” इति पञ्चेक्षुशर्करागुणाः ॥ * ॥
“यावनाली हिमोत्पन्ना हिमाली हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुडजा जलबिन्दुजा ॥ हिमजा शर्करा गौल्या सोक्ता तिक्ताति- पिच्छिला । वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥” इति यावनालशर्करागुणाः ॥ * ॥
“शीतजान्या कर्करजा माधवी मधुशर्करा । माक्षिका शर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्द्दिनाशनः । कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥ यवासशर्क्करा त्वन्या सुधामोदकमोदकः । तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥” इति राजनिर्घण्टः ॥” * ॥
अपि च । “मत्स्यण्डिकाः खण्डसिता गुणश्रेष्ठा यथोत्तरम् । विमलाः शीतलाः स्निग्धा गुर्व्व्यः स्वादुतराः सराः ॥ वृष्यास्तृषाक्षतक्षीणरक्तपित्तानिलापहाः । मत्स्यण्डी ग्राहिणी बल्या कषाया वातजिद्- गुरुः ॥ खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् । सितोपला सरा गुर्व्वी वातघ्नी न कफप्रदा ॥” इति पथ्यापथ्यविवेकः ॥ * ॥
अन्यच्च । “शर्करा ज्वरपित्तासृङ्मूर्च्छाछर्दितृषापहा । तृष्णाघ्नस्तवराजस्तु ज्वरदाहास्रपित्तनुत् ॥ लसिकाफाणितगुडखण्डमत्स्यण्डिकासिताः । निर्म्मला लघवो क्षेयाः शीतवीर्य्या यथोत्तरम् । यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा ॥” इति राजवल्लभः ॥ * ॥
किञ्च । “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाहजित् । मूर्च्छाछर्दिज्वरान् हन्ति सुशीता शुक्र- कारिणी ॥ * ॥
भवेन्मधुसिता शीता रक्तपित्तहरी लघुः । सितोपला सरा लघ्वी वातपित्तहरी हिमा ॥ * ॥
मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः । छर्द्यतीसारतृड्दाहरक्तकृत्तुवरा हिमा ॥ यथा यथैषां नैर्म्मल्यं मधुरत्वं तथा तथा । स्नेहलाघवशैत्यानि रसत्वञ्च तथा तथा ॥” इति भावप्रकाशः ॥ * ॥
उपला । कर्परांशः । (यथा, महाभारते । ३ । ५५ । २ । “ततो वायुर्म्महान् शीघ्रो नीचैः शर्क्करवर्षणः ॥”)
शर्करान्वितदेशः । रोगभेदः । शकलम् । इति मेदिनी ॥ शर्करारोगस्य निदानचिकित्सादि- र्मूत्रकृच्छ्रशब्दे द्रष्टव्यः ॥ (कूर्म्मचक्रस्य पुच्छदेश- स्थितदेशविशेषः । यथा, मार्कण्डेये । ५८ । ३५ । “तारक्षुरा ह्यङ्गतकाः शर्कराः शाल्म- वेश्मकाः ॥”)



Correction: