शब्दकल्पद्रुमः
शर्कराप्रभा || स्त्री (शर्क्करेव प्रभा यस्याः ।) जिनानां नरकविशेषः । यथा, — “रत्नशर्करावालुकापङ्कधूमतमप्रभा । महातमप्रभा वेत्यधोऽधो नरकभूमयः ॥” इति हेमचन्द्रः ॥