वाचस्पत्यम्
शर्करिक || त्रि० शर्कराः सन्त्यस्य ठक् । बहुशर्करायुक्तदेशे इलच् । शर्करिल—तत्रैव उभयत्रामरः ।
शब्दकल्पद्रुमः
शर्करिकः || त्रि (शर्क्करा विद्यते अस्मिन् । “बुञ्छण्कठजिलेति ।” ४ । २ । ८० । इति कुमुदा- दित्वात् ठक् ।)
शर्करावान् । इति सिद्धान्त- कौमुदी ॥