शब्दकल्पद्रुमः
शर्करी || स्त्री छन्दोविशेषः । नदी । मेखला । इति हस्तलिखितमेदिनी ॥ लेखनी । इति धरणिः ॥ मुद्राङ्कितमेदिनीहेमचन्द्रयोः रेफशून्यद्विककार- मध्यपाठः । अस्या विवरणं शक्करीशब्दे द्रष्टव्यम् ॥