संस्कृत-शब्दकोशः

शर्करी शर्द्ध

शर्करोदक

वाचस्पत्यम्

शर्करोदक ||‍ न० शर्करामिश्रितमुदकम् । (चिनिर पाना) शर्करामिश्रिते जले तत्करणप्रकारगुणादिकं भावप्र० उक्तं यथा “जलेन शीतलेनैव घोलिता शुभ्रशर्करा । एला- लवङ्गकर्पूरमरिचैश्च समन्विता । शर्करोककनाम्नैतत् प्रसिद्धं विदुषां मतम् । शर्करोदकमाख्यातं शुक्रलं शि- शिरं सरम् । बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाश- नम् । मूर्च्छाच्छर्दितृषादाह ज्वरशान्तिकरंपरम्” भावप्र०


शब्दकल्पद्रुमः

शर्करोदकं || क्ली (शर्करायुक्तमुदकम् ।)
शर्करा- युक्तजलम् । चिनिरपाना इति शरवत् इति च भाषा । यथा, —
“जलेन शीतलेनैव घोलिता शुभ्रशर्करा । एलालवङ्गकर्पूरमरिचैश्च समन्विता ॥ शर्करोदकनाम्नैतत् प्रसिद्धं विदुषां मुखे । शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम् ॥ बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम् । मूर्च्छाच्छर्द्दितृषादाहज्वरशान्तिकरं परम् ॥” इति भावप्रकाशः ॥



Correction: