शब्दकल्पद्रुमः
शर्म्मा || [न्] पुं, (शृणात्यशुभमिति । शॄ + “सर्व्व- धातुभ्यो मनिन् ।” उणा० ४ । १४४ । इति मनिन् ।)
ब्राह्मणस्योपाधिविशेषः । यथा, —
“शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि । शर्म्मणोऽक्षय्यकाले च पितॄणां दत्तमक्षयम् ॥” शर्म्मन्नित्यनेन गोत्रसम्बन्धनामानि पितणां परि- कल्पयन्नित्येकवाक्यतया शर्म्मान्तं नाम प्रतीयते । तथा च विष्णुपुराणम् । “ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि । देवपूर्ब्बं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥” देवात् पूर्ब्बं नराख्यं नरनाम तच्च विशिष्टं शर्म्म- युतम् । एतच्च विप्रपरम् । “शर्म्मा देवश्च विप्रस्य वर्म्म त्राता त्त भूभुजः । भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥” इति यमवचनात् ॥ अत्र चकारेण देवशर्म्मणोः समुच्चयः । अत्रापि शर्म्माद्यन्ततामाह शातातपः ॥ “शर्म्मान्तं ब्राह्मणस्य स्याद्वर्म्मान्तं क्षत्त्रियस्य च । धनान्तञ्चैव वैश्यस्य दासान्तं चान्त्यजन्मनः ॥” इति श्राद्धतत्त्वम् ॥ (तथा च विष्णुपुराणे । ३ । १० । ८ — ९ । “ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि । देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥ शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥” “दशमेऽहनि अतीते इति शेषः । तच्चाशौ- चान्तोपलक्षणम् । अत्रैव कालान्तरमप्याह । यथा, — ‘नामधेयं दशम्याञ्च केचिदिच्छन्ति पार्थिव । द्बादश्यामथवा रात्र्यां मासे पूर्णे तथापरे ॥’ इति ॥ देवपूर्व्वं कुलदेवतानामपूर्व्वकं कुलदेवतासम्बन्धं नाम कुर्य्यात् इति शङ्खोक्तेः । नराख्यं पुरुषवाच- कम् । तत्र प्रान्त शर्म्मवर्म्मादिसंयुतम् । यथा, सोमशर्म्मा इन्द्रवर्म्मा चन्द्रवर्म्मा चन्द्रगुप्तः शिवदासः इत्यादि ।” इति तट्टीकायां स्वामी ॥ “तत्रादौ नाम निर्णयः । ‘शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥” इत्यत्रेति पदस्वरसेन यद्यपि शर्म्मपदात्मकमेव नामावगम्यते तथापि तावन्मात्रं न नाम किन्तु तद्वन्नामेति निर्णीयते द्ब्यक्षरं चतुरक्षरं इत्यादि गृह्यदर्शनात् । एवञ्च हरिशर्म्मा नारायण- शर्म्मेत्यादि सिध्यति शर्म्मपदमात्रात्मकत्वात् त- न्नाम्नश्चतुरक्षरता न स्यादेव । तथाच नारा- यणादिपदशर्म्मपदाभ्यां निर्णीतमेव नाम द्व्यक्ष- रादिकन्तु शर्म्मपूर्व्वप्रतीकमात्रमेव अतएव दानादौ नामोच्चारणे चैत्रशर्म्मणे इत्येव श्रूयते । गोभिलः । ‘शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि । शर्म्मणोऽक्षय्यकाले स्यादेवं कुर्व्वन्न मुह्यति ॥’ इदमप्युत्तरप्रतीकमात्रपरमुक्तगृह्येन सहैकमूल- त्वात् । एतेन शर्म्म सुखनीयमिति कर्कदर्शनात् । शर्म्मपदमर्थपरं तेन शुभङ्करेत्याद्येव नामेत्यपास्तं गोभिलविरोधात् । कर्कन्तु पूर्व्वप्रतीकमात्रपरम् । तेन शुभङ्करशर्म्मा भीमशर्म्मेत्यादि सिध्यति एवञ्च हव्यकव्ये चैतादृशमेव नाम तेषां प्रयोज्यम् । अपवादकाभावादिति । अत्रैव मनुः । ‘मङ्गल्यंब्राह्मणस्य स्यात् क्षत्त्रियस्य बलान्वितम् । वैशस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्व्वादाभिधानवत् ॥’ शर्म्मवर्म्मप्रभृतीनि उत्तरपदानि कार्य्याणीति मनुटीकापि । स्त्रीनाम तु यशोदादेवीत्यादि स्त्रीणां दान्तमित्यपि पूर्व्वप्रतीकमात्रपरम् । वैश्यस्य गुप्तान्तमिति तु पराशरः । एवञ्च दानादौ चैत्रशर्म्मणे ब्राह्मणायेत्यादि स्वरूपं वाक्यम् ॥” इति द्वैतनिर्णयः ॥ * ॥
)