संस्कृत-शब्दकोशः

शर्म्मिका शर्याति

शर्या

वाचस्पत्यम्

शर्य्या ||‍ स्त्री शॄ—यत् । रात्रौ वाचस्पतिः ।


शब्दकल्पद्रुमः

शर्य्या || स्त्री रात्रिः । यथा, —
“त्रियामाशर्व्वरी शर्य्या क्षयणी क्षणदा क्षपा ।” इति भरतधृतवाचस्पतिः ॥ (इषुः । यथा, ऋग्वेदे । १ । १४ । ४ । “शर्य्यामसना मनुद्यून् ।” “शर्य्या इषवः शर- मय्यः । इति यास्कः ॥” इति तद्भाष्ये सायणः ॥ अङ्गुलिः । यथा, तत्रैव । ९ । ११० । ५ । “शर्य्याभिर्नभरमाणोगभस्त्योः ।” “शर्य्याभिरङ्गुलीभिः ।” इति तद्भाष्ये सायणः ॥)



Correction: