वाचस्पत्यम्
शर्य्याति || पु० वैवस्वतमनोः पुत्रभेदे ।
शब्दकल्पद्रुमः
शर्य्यातिः || पुं, वैवस्वतमनुपुत्त्रः । तस्य पुत्त्र आनर्त्तः । यथा, —
“आनर्त्तो नाम शर्य्यातेः सुकन्या नाम दारिका ॥ आनर्त्तस्याभवत् पुत्त्रो रोचमाणः प्रतापवान् । आनर्त्तो नाम देशोऽभून्नगरी च कुशस्थली ॥” इति मात्स्ये १२ अध्यायः ॥ (अस्य विशेषविवरणं भागवते । ८ । १३ ॥ एवं ९ । १ । अध्याये च द्रष्टव्यम् ॥)