संस्कृत-शब्दकोशः

शर्वर शर्वला

शर्वरी

वाचस्पत्यम्

शर्वरी ||‍ स्त्री शॄ—वनिप् ङीप् वनो र च । १ रात्रौ अमरः । शर्वरीशश्चन्द्रः । २ हरिद्रायां विश्वः ।


शब्दकल्पद्रुमः

शर्व्वरी || स्त्री (शृणाति चेष्टामिति । शॄ + “कॄगॄ- शॄवृचतिभ्यः ष्वरच् ।” उणा० २ । १२३ । इति ष्वरच् । षित्वात्ङीष् ।)
रात्रिः । इत्यमरः ॥ (यथा, ऋग्वेदे । ५ । ५२ । ३ । “अतिस्कन्दन्ति शर्व्वरीः ॥”)
योषित् । इति मेदिनी ॥ हरिद्रा । इति विश्वः ॥ सन्ध्या । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: