वाचस्पत्यम्
शलाकापरि || अव्य० अव्ययी० । शलाकासाघनक्रीडायां पराजये
शब्दकल्पद्रुमः
शलाकापरि || व्य, शलाकाक्रीडायां पराजयः । यथा । “अक्षशलाकासंख्याः परिणा ।” २ । १ । १० । द्यूतव्यवहारे पराजये एवायं समासः । अक्षे विपरीतं वृत्तम् । अक्षपरि । एवं शलाका- परि । एकपरि । इति सिद्धान्तकौमुदी ॥ अपि च । नन्वेकस्याक्षस्य शलाकाया वा द्यूतेऽन्यथापातनमित्यर्थे अक्षपरि शलाकापरि इत्यव्ययीभावेऽव्याप्तिस्तयोरव्ययगर्भत्वेऽपि अव्यय- पूर्व्वत्वाभावात् । इति शब्दशक्तिप्रकाशिका ॥