संस्कृत-शब्दकोशः

शलाट शलाभोलि

शलाटु

वाचस्पत्यम्

शलाटु ||‍ त्रि० शल—आटु । १ अपक्वफले अमरः । २ मूलभेदे उणादि० ३ बिल्वे च पु० राजनि० ।


शब्दकल्पद्रुमः

शलाटुः || त्रि अपक्वफलम् । इत्यमरः । २ । ४ । १५ ॥ (यथा, सुश्रुते । १ । ४३ । “मदनशलाटु चूर्णान्येवं वा वकुलरम्यकोप- युक्तानि मधुलवणयुक्तानीति ॥”)


शब्दकल्पद्रुमः

शलाटुः || पुं, मूलविशेषः । इत्युणादिकोषः ॥ विल्वः । इति राजनिर्घण्टः ॥



Correction: