शब्दकल्पद्रुमः
शली || स्त्री (शलं शल्लकीलोम अस्त्यस्या इति । शल + अच् । ङीष् ।) स्वल्पशल्यकः । तत्- पर्य्यायः । शलली २ श्वावित् ३ । अस्य मांस- गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतलत्वम् । कफपित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥