संस्कृत-शब्दकोशः

शली शल्कल

शल्क

वाचस्पत्यम्

शल्क ||‍ न० शल—क कस्य नेत्त्वम् । १ खण्डे २ वृक्षयल्कले अमरः । ३मत्स्यत्वचि च (आँस) कोषान्तरम् ।


शब्दकल्पद्रुमः

शल्कं || क्ली (शल चलने स्तृतौ + “इण्भीका- पाशल्यतिमर्च्चिभ्यः कन् ।” उणा० ३ । ४३ । इति कन् ।)
खण्डम् । वल्कलम् । इत्यमरः ॥ मत्स्यत्वक् । आँइस इति भाषा । यथा, —
“शल्कं स्यात् वल्कले खण्डे शल्कन्तु मत्स्य- वल्कले ॥” इति भरतधृतकोषः ॥ (यथा, महाभारते । १२ । ३६ । २३ । “अभक्ष्या ब्राह्मणैर्मत्स्याः शल्कैर्ये वै विव- र्जिताः ॥”)



Correction: