संस्कृत-शब्दकोशः

शल्य शल्यकण्ठ

शल्यक

वाचस्पत्यम्

शल्यक ||‍ पु० शल्य इव कायति कै—क । १ मदनवृक्षे (मयना) शब्दच० । २ शल्लकीखगे च पुंस्त्री० स्त्रियां ङीष् राजनि० ।


शब्दकल्पद्रुमः

शल्यकः || पुं, (शल्य इव । शल्य + इवार्थे कन् ।)
मदनवृक्षः । इति शब्दरत्नावली ॥ शल्लकी- जन्तुः । इति राजनिर्घण्टः ॥ (यथा, मनुः । ५ । १८ । “श्वाविधं शल्यकं गोधां खड्गकूर्म्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥”)



Correction: