संस्कृत-शब्दकोशः

शल्लक शल्लकीद्रव

शल्लकी

शब्दकल्पद्रुमः

शल्लकी || स्त्री पशुविशेषः । शजारु इति वङ्ग- भाषा । साहिल इति हिन्दीभाषा ॥ तत्- पर्य्यायः । श्वावित् २ शलका ३ शल्यः ४ । इति जटाधरः ॥ क्रकचपादः ५ छेदारः ६ । इति शब्दरत्नावली ॥ शल्यकः ७ शल्यमृगः ८ वज्रशल्यः ९ विलेशयः १० । अस्या मांस- गुणाः । “शल्यमांसं गुरुस्निग्धं शीतलं कफपित्तजित् ॥” इति राजनिर्घण्टः ॥ भावप्रकाशोक्तगुणाः विलेशयशब्दे द्रष्टव्याः ॥ वृक्षविशेषः । (यथा, रामायणे । २ । ५५ । ९ । “क्रोशमात्रं ततो गत्वा नीलं प्रेक्ष्य च काननम् । शल्लकीवदरीमिश्रं राम वन्यैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतस्य बहुशो मया ॥”)
तत्पर्य्यायः । गजभक्ष्या २ सुवहा ३ सुरभिः ४ रसा ५ महेरणा ६ कुन्दुरुकी ७ ह्लादिनी ८ । इत्यमरः ॥ गजभक्षा ९ सुरभी १० महेरुणा ११ महारणा १२ ह्नादिनी १३ सिल्लकी १४ सल्लकी १५ । इति भरतः ॥ सुरभीरसा १६ शिल्लकी १७ । इति टीकान्तरम् ॥ सिह्लकी १८ सिह्लभूमिका १९ । इति शब्दरत्नावली ॥ अश्व- सूत्री २० कुन्ती २१ । इति जटाधरः ॥



Correction: