वाचस्पत्यम्
शवरालय || पु० ६ त० । शवरावासस्थामे अमरः ।
शब्दकल्पद्रुमः
शवरालयः || पुं, (शवरस्यालयः ।) शवरगृहम् । तत्पर्य्यायः । पक्वणः २ । इत्यमरः ॥ पक्कणः ३ । इति शब्दरत्नावली ॥ शवरावासः ४ । इति हेमचन्द्रः ॥