शशक
शशप्लुतक
शशधर
वाचस्पत्यम्
शशधर || पु० शशं मृगभेदं धरति धृ—अच् । १ चन्द्रे २ कर्पूरे च अमरः । भृ—क्विप् शशभृदादयोऽप्यत्र ।
शब्दकल्पद्रुमः
शशधरः || पुं, (शशस्य धरः ।)
चन्द्रः । (यथा, साहित्यदर्पणे । १० । “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः ॥”)
कर्पूरः । इत्यमरः ॥