संस्कृत-शब्दकोशः

शशक शशप्लुतक

शशधर

वाचस्पत्यम्

शशधर ||‍ पु० शशं मृगभेदं धरति धृ—अच् । १ चन्द्रे २ कर्पूरे च अमरः । भृ—क्विप् शशभृदादयोऽप्यत्र ।


शब्दकल्पद्रुमः

शशधरः || पुं, (शशस्य धरः ।)
चन्द्रः । (यथा, साहित्यदर्पणे । १० । “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः ॥”)
कर्पूरः । इत्यमरः ॥



Correction: