शब्दकल्पद्रुमः
शशभृद्भृत् || पुं, (शशभृतं चन्द्रं बिभर्त्तीति । भृ + क्विप् ।) शिवः । यथा, — “आत्मानं योगनिद्राञ्च चिन्तयित्वा मन- स्विनी । दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः ॥” इति कालिकापुराणे ४४ अध्यायः ॥