शब्दकल्पद्रुमः
शशलोम || [न्] क्ली, (शशस्य लोम ।) शशकस्य रोम । तत्पर्य्यायः । शशोर्णम् २ । इत्यमरः ॥ (पुं, तन्नामकराजः । यथा, महाभारते । १५ । २० । १४ । “शशलोमा स राजासीत् राजन् परम- धार्म्मिकः ॥”)