संस्कृत-शब्दकोशः

शशाण्डुलि शशादन

शशाद

वाचस्पत्यम्

शशाद ||‍ पु० शशमत्ति अदअण् । श्येनविहगे राजनि० । ल्यु । तत्रैव ।


शब्दकल्पद्रुमः

शशादः || पुं, (शशमत्तीति । अद + अच् ।)
श्येन- पक्षी । इति राजनिर्घण्टः ॥ (इक्षाकुपुत्त्रः । यथा, महाभारते । ३ । २२१ । १ । “इक्षाकौ संस्थिते राजन् शशादः पृथिवी- मिमाम् । प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥” अस्य विकुक्षिरिति नाम आसीत् । अयं हि पित्रनुज्ञातः श्राद्दार्थं मांसमानेतुं वनं गतः मृगान् व्यापादयामास । ततोऽतिश्रान्तः क्षुत्- परीत एकं शशमभक्षत् अतोऽस्य शशाद इति नाम अजायत । एतद्बिवरणं भागवते । ९ । ६ अध्याये तथा विष्णुपुराणे ४ । २ अध्याये च द्रष्टव्यम् ॥)



Correction: