वाचस्पत्यम्
शशिलेखा || स्त्री शशिनो रेखा रस्य लः । १ चन्द्रकलायां शशिनो लेखेव अमूतास्पदत्वात् । २ गुडूच्यां मेदि० । “म्रौ मो यौ चेत् भवेतां सप्ताष्टकैश्चन्द्रलेखा” छन्दोम० उक्तलक्षणे ३ पञ्चदशाक्षरपादके छन्दोभेदे ।
शब्दकल्पद्रुमः
शशिलेखा || स्त्री चन्द्रकला । गुडूची । बृत्तभेदः । इति मेदिनी ॥ तद्वृत्तस्य लक्षणादि यथा, —
“म्रौ मो यौ चेत् भवेतां सप्ताष्टकैश्चन्द्रलेखा । विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा । राधाम्भोदस्य मध्ये लीला यथा चन्द्रलेखा किञ्चार्त्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥” इति छन्दोमञ्जरी ॥