वाचस्पत्यम्
शस || आशिषि भ्वा० आत्म० सक० इदित् सेट् । प्रायेश्चाङ्- पूर्वः । आशंसते आशंसिष्ट ।
वाचस्पत्यम्
शस || बधे भ्वा० पर० सक० सेट् उदित् क्त्वा बेट् । शसति । अशासीत् अशसीत् ।
वाचस्पत्यम्
शस || स्वप्ते अदा० पर० अक० सेट् इदित् । शंस्ति अशंशत् ।
शब्दकल्पद्रुमः
शस || इ ङ आशिषि । आङ्पूर्व्वकोऽयम् । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
इ, आशंस्यते । ङ, आशंसते । आशीरिष्टार्थ- शंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शस || उ वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् । क्त्वावेट् ।)
उ, शसित्वा शस्त्वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शंस || उ हिंसास्तुत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । क्वावेट् ।)
ताल- व्यादिः । उ, शंसित्वा शस्त्वा । यः शंसति सतामिति हलायुधः ॥ अनेकार्थत्वात् कथने- ऽप्ययम् । यथा, रघौ । शशंस वाचा पुनरुक्त- येवेति । न मे ह्रिया शंसति किञ्चिदी- प्सितमित्यादि च । इति दुर्गादासः ॥