वाचस्पत्यम्
शसन is an alternate of ससन. स(श)सन || न० स(स)स० हिंसने ल्युट् । यज्ञार्थं पशुहनने अमरः
वाचस्पत्यम्
शसन || न० शस—बधे ल्युट् । यज्ञार्थं पशुहनने ।
शब्दकल्पद्रुमः
शसनं || क्ली (शस + ल्युट् ।)
यज्ञार्थपशुहननम् । इति शसनशब्दटीकायां रामाश्रमः ॥ (शस्यते हन्यतेऽत्र इत्यधिकरणे ल्युटि हत्यास्थानम् । यथा, ऋग्वेदे । १० । ८९ । १४ । “मित्रक्रुवो यच्छसनेन गावः ।” “शसने विशसनस्थाने ।” इति तद्भाष्ये सायणः ॥)