शब्दकल्पद्रुमः
शस्कुली || स्त्री पिष्टकविशेषः । पुली पिटा इति भाषा । (यथा, महाभारते । ७ । ६२ । ७ । “मोदकान् पूरिकापूपान् धानाधमक- शस्कुलीः ॥”)
अस्या गुणाः । “पर्पटा लघवो रूक्षाः शस्कुल्यः कफपित्तलाः ॥” काञ्जिकयुक्ततिलशस्कुली त्याज्या यथा, —
“मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम् । मूलकं माषसूपेन मधुना च न भक्षयेत् ॥” इति राजवल्लभः ॥ * ॥
वृथा तद्भक्षणप्रायश्चित्तं यथा । वृथा पायसपूपशस्कुलीकृशरसंयावशिग्रुलोहितवृक्ष- निर्य्यासामेध्यप्रभवाणां भक्षणे कामतस्त्र्यहोप- वासः । अकामतस्तदर्द्धम् । क्षत्त्रियादीनां पाद- पादहानिः । इति प्रायश्चित्तविवेकः ॥