संस्कृत-शब्दकोशः

शस्कुली शस्तक

शस्त

वाचस्पत्यम्

शस्त ||‍ न० शन्स—क्त । १ कल्याणे २ तद्ववि अमरः । ३ लुते ४ प्रशस्ते च त्रि० मेदि० । ५ देहे न० त्रिका० संज्ञायां कन् । ६ अङ्गुलित्राणे शब्दच०!


शब्दकल्पद्रुमः

शस्त || इ र लु स्वप्ने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक-सेट् ।)
इ, शंस्त्यते । नमध्य- पाठेऽपि नस्य उपधात्वाभावात् लोपाभावे इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु, शंस्ति । र, वैदिकः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शस्तं || क्ली (शस् + क्तः ।)
कल्याणम् । इत्यमरः ॥ (यथा, महाभारते । १३ । १० । ४२ । “लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ॥”)
शरीरम् । इति त्रिकाण्डशेषः ॥


शब्दकल्पद्रुमः

शस्तः || त्रि कल्याणयुक्तः । स्तुतः । इत्यमरः ॥ प्रशस्तः । इति मेदिनी ॥ (यथा, भागवते । ३ । २९ । १५ । “क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥” निहतः । यथा, महाभारते । ३ । ४० । ३ । “शक्राभिषेके सुमहद्धनुर्ज्जलदनिस्वनम् । प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥”)



Correction: