वाचस्पत्यम्
शस्त्रजीविन् || पु० शस्त्रेण जीवति जीव—णिनि । शस्त्र- व्यापारेण युद्धादिना वृत्तिसति हेमच० ।
शब्दकल्पद्रुमः
शस्त्रजीवी || [न्] (शस्त्रेण जीवतीति । जीव + णिनिः ।)
शस्त्राजीवः । इति हेमचन्द्रः ॥ (यथा, बृहत्संहितायाम् । १७ । २४ । “रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्त्रम् ॥”)