संस्कृत-शब्दकोशः

शस्त्रधारणजीवक शस्त्रभृत्

शस्त्रपाणि

वाचस्पत्यम्

शस्त्रपाणि ||‍ पु० शस्त्रं पाणौ यस्य । १ शस्त्रधारके २ आतता- यिभेदे च “शस्त्रपाणिर्धनापहः” इति स्मृतिः ।


शब्दकल्पद्रुमः

शस्त्रपाणिः || त्रि (शस्त्रं पाणौ यस्य ।)
शस्त्र- हस्तः । यथा, —
“उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥” इति व्यवहारतत्त्वम् ॥ अपि च । “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥” इति प्रापश्चित्तविवेकः ॥



Correction: