वाचस्पत्यम्
शस्यमञ्जरी || स्त्री ६ त० । अभिनवथान्यादिशीर्षे अमरः ।
शब्दकल्पद्रुमः
शस्यमञ्जरी || स्त्री (शस्यस्य मञ्जरी ।) अभिनव- निर्गतधान्यादिशीर्षकम् । शीष इति भाषा ॥ तत्पर्य्यायः । कणिशम् २ । इत्यमरः ॥ कणिशः ३ कणिषः ४ । इति तट्टीका ॥