संस्कृत-शब्दकोशः

शाकराज शाकलक

शाकल

वाचस्पत्यम्

शाकल ||‍ पु० ब० व० शकलेन ऋषिणा प्रोक्तमधीयते अण् । १ शकलर्षिप्रोक्तकल्पादिग्रन्थाध्येतृषु । तेषां संघोऽङ्को घोषो वा पुनरण् वुन् वा । शाकल शाकलक वा । १ तत्समूहे २ तदङ्के । ३ तद्धोषे च पु० । अङ्कः परस्परा सम्बन्धः” सि० कौ० ।


शब्दकल्पद्रुमः

शाकलः || पुं, शकलेन प्रोक्तमधीयते शाक- लास्तेषां सङ्घोऽङ्को घोषो वा । “शाकलाद्वा ।” ४ । ३ । १२८ । इति अण् । परम्परासम्बन्धोऽङ्कः । इति सिद्धान्तकौमुदी ॥ (द्बीपविशेषः । यथा, महाभारते । २ । २६ । ६ । “शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः । अर्ज्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत् ॥”)



Correction: