संस्कृत-शब्दकोशः

शाकुन शाकुनेय

शाकुनिक

वाचस्पत्यम्

शाकुनिक ||‍ पु० शकुनेन पक्षिवधादिना जीवति ठञ् । पक्षिथातके अमरः ।


शब्दकल्पद्रुमः

शाकुनिकः || पुं, (शाकुनान् हन्तीति । शकुन + “पक्षिमत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।)
पक्षिहन्ता । पाखिमारा इति चिडिमार इति च भाषा । तत्पर्य्यायः । जीवान्तकः २ । इत्यमरः ॥ (यथा, मनुः । ८ । २६० । “व्याधान् शाकुनिकान् गोपान् कैवर्त्तान् मूलखानकान् ॥”)



Correction: