शाकुनेय
शाकुलिक
शाकुन्तलेय
वाचस्पत्यम्
शाकुन्तलेय || पु० शकुन्तलाया अपत्यं ढक् । दुष्मन्तात्मजे शकुन्तलाभजे भरते नृपे जटा० ।
शब्दकल्पद्रुमः
शाकुन्तलेयः || पुं, (शकुन्तलाया अपत्यमिति । शकुन्तला + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
भरतराजः । इति जटाधरः ॥ शकुन्तलासम्बन्धिनि, त्रि ॥