संस्कृत-शब्दकोशः

शाक्वर शाखा

शाख

वाचस्पत्यम्

शाख ||‍ पु० शाख—अच् । कृत्तिकापुत्रे स्कन्दानुजे १ कुमारानु- चरगणभेदे “अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः” मत्स्यपु० ५ अ० । २ ग्रन्थपरिच्छेदे सर्गस्थानीवे ग्रन्थांशभेदे शब्दच० । वृक्ष- स्यांशभेदे (डाल) स्त्री अमरः । ३ पक्षान्तरे ४ राहौ ५ वेदै- कदेशे च स्त्री मेदि० । ६ अन्तिके विश्वः । ७ देहांशभेदे च ।


वाचस्पत्यम्

शाख ||‍ व्याप्तौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । शाखति अशाखोत् ।


शब्दकल्पद्रुमः

शाख || ऋ व्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ऋ, अशशाखत् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शाखः || पुं, कृत्तिकापुत्त्रः । यथा, —
“अवाप चानिलात् पुत्त्रमग्नितुल्यगुणं पुनः । अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः । अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥” इति मात्स्ये ५ अध्यायः ॥ छित्तिः । इति शब्दचन्द्रिका ॥



Correction: