संस्कृत-शब्दकोशः

शाख शाखाकण्ट

शाखा

शब्दकल्पद्रुमः

शाखा || स्त्री (शाखति गगनं व्याप्नोतीति । शाख + अच् । टाप् ।)
वृक्षाङ्गविशेषः । डाल इति भाषा । (यथा, दुर्गापूजापद्धतौ । “शाखाच्छेदोद्भवं दुःखं न च कार्य्यं त्वया प्रभो ! ॥”)
तत्पर्य्यायः । लता २ । इत्यमरः ॥ लङ्का ३ । इति जटाधरः । शिखा ४ । इति भरतधृत- मेदिनी ॥ पक्षान्तरम् । बाहुः । वेदभागः । इति मेदिनी ॥ (यथा, मनौ । ३ । १४५ । “यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”)
ग्रन्थभेदः । इति धरणिः ॥ अन्तिकः । इति विश्वः ॥ (प्रकारः । यथा, गीतायाम् । २ । ४१ । “बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवशायिनाम् ॥”)



Correction: