संस्कृत-शब्दकोशः

शाखाकण्ट शाखापित्त

शाखानगर

वाचस्पत्यम्

शाखानगर ||‍ न० शाखेव नगरम् । मूलनगरसमीपस्थे क्षदपुरे अमरः । शाखापुरादयोऽप्यत्र


शब्दकल्पद्रुमः

शाखानगरं || क्ली (शाखेव नगरम् ।)
मूलनग- रादन्यत् पुरम् । इत्यमरः ॥ (यथा, महा- भारते । १२ । ८७ । ८ । “शाखानगरमर्हस्तु सहस्रपतिरुत्तमः ॥”)
मूलनगरेऽसम्मितस्य जनौघस्य स्थानाय मूल- नगरस्य समीपेऽङ्के वा यदन्यत् पुरं नगरान्तरं क्रियते तत् शाखानगरं मूलनगरस्य तरुस्थानी- यस्य शाखेव । अभिष्यन्दि रमणमप्यत्र । स्यादभिष्यन्दि रमणं शाखानगरमित्यपि । इति त्रिकाण्डशेषः । इति तट्टीकायां भरतः ॥ अपि च । यथा, शब्दरत्नावल्याम् । “आरभ्य मूलनगरादपरं नगरं हि यत् । तदभिष्यन्दि रमणं शाखानगरमित्यपि ॥”



Correction: