वाचस्पत्यम्
शाखामृग || पुंस्त्री० शाखास्थो मृगः पशुः । वानरे अमरः । स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
शाखामृगः || पुं, (शाखाया मृगः ।)
वानरः । इत्यमरः ॥ (यथा, —
“मुक्ताफलाय करिणं हरिणं पंलाय सिंहं निहन्ति भुजविक्रमसूचनाय । का नीतिरीतिरियती रघुवंशवीर ! शाखामृगे जरति यस्तव वाणमोक्षः ॥” इत्युद्भटः ॥