शब्दकल्पद्रुमः
शाखारथ्या || स्त्री षोडशहस्तप्रस्थपथः । यथा, — “धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षकाः ॥” इति देवीपुराणे गोपुरद्बारलक्षणनामाध्यायः ॥