वाचस्पत्यम्
शाखिन् || पु० शाखाऽस्त्यस्य इनि । १ वृक्षे अमरः । २ वेदैक- देशवति, ३ नृपभेदे, ४ म्लेच्छभेदे च मेदि० ।
शब्दकल्पद्रुमः
शाखी || [न्] पुं, (शाखास्त्यस्येति । शाखा + इनिः ।)
वृक्षः । इत्यमरः ॥ (यथा, —
“सीताया हृदि यच्छिरीषकुसुमप्राये पफालो- च्चकैः पौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिके वक्षसि । आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहे कः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध- स्यायुधम् ॥” इत्युद्भटः ॥)
वेदः । तुरुष्काख्यजनः । इति मेदिनी ॥ राज- भेदः । इति हेमचन्द्रः ॥