शब्दकल्पद्रुमः
शाङ्करं || क्ली (शङ्कर + अण् ।)
छन्दोभेदः । इति मेदिनी ॥ अस्य रूपान्तरं शाक्करं शार्करञ्च ॥ (शङ्करो देवतास्य इत्यर्थे अणि आर्द्रानक्षत्रम् । यथा, बृहत्संहितायाम् । ७१ । ७ । “मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे ॥”)
शब्दकल्पद्रुमः
शाङ्करः || पुं, (शङ्करस्यायं वाहनत्वात् । शङ्कर + अण् ।)
वलीवर्द्दः । इति मेदिनी ॥ (शङ्कर- सम्बन्धिनि, त्रि । यथा, कथासरित्सागरे । ४६ । २०१ । “तत्रैषां तद्गुहाद्वारप्राप्तानां शाङ्करा गणाः ॥”)