वाचस्पत्यम्
शाट || पु० शट—थञ् । वस्त्रे अमरः । स्त्रीत्वमपि गौरा० ङीष् ।
शब्दकल्पद्रुमः
शाटः || पुं, वस्त्रभेदः । इत्यमरभरतौ ॥ यथा, — “दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥” इति चाणक्यशतकम् ॥