शाठ्य
शाड्वल
शाड
वाचस्पत्यम्
शाड || श्लाघायां भ्वा० आ० सक० सेट् । शाडते अशाडिष्ट ऋदित् चङिन ह्रस्वः ।
शब्दकल्पद्रुमः
शाड || ऋ ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ऋ, अशशाडत् । ङ, शाडते गुणिनं गुणी । अन्तःस्थतृतीय- युक्तादिरयमिति कस्यचिद्भ्रमः । इति दुर्गा- दासः ॥